इदं
जीवनं
सुशोभनं
भवेद्
! इति
आकांक्षा
सदोदेति
खलु?
तर्हि
तज्जीवनं
वनं
हित्वा
कथं
सिद्ध्येत
।
“जीवाम शरदश्शतं” इति मन्यमानैः पूर्वजैः आर्षैः वनसंरक्षणं कृतम् । न यत्नेन किं तु मातृभावेन । वनं अस्माकं जीवनम् । अत एव सा प्रकृतिरिति कथ्यते । प्रकृतिर्न केवलमस्माकमाश्रयभूता किन्तु मातृस्थानीया। सा माता अस्मान् आजीवनं पालयति । अस्माकं सन्ततेरपि रक्षणं तयैव कर्तव्यम् । अतः सा माता अस्माभिः रक्षितव्या भवति । प्रकृतिस्तु स्वस्याः सर्वसम्पदमपि मातृवत् पुत्राणां सुखार्थं
विनियुंक्ते । “कुपुत्रो
जायेत
क्वचिदपि
कुमाता
न
भवति”
इति।
किन्तु तस्या अपि एका सीमा
वर्तते । तदतिरिच्य सा यदि यत्किंचिद्ददाति चेदपि तद्विषायत एव! पुत्रा वयं मातुः मातृत्त्वं पालयामः । तथा च चिन्तयाम अस्य पर्यावरणस्य परिरक्षणं
कथं कर्तुं शक्यते? इति । एवमेव परिभावयाम समस्तपृथिवी हरिद्रांचितं
यथा भवेत् । तदर्थमस्माभिः यत्नेन वनसंरक्षणं, वनसंवर्धनमपि कार्यम्
। नो चेदागामि जीवप्रपञ्चे नास्माकं गणना गुणेन गौरवेण वा स्यात्! जीवनं संजीवनं यथा भवेत् । उज्जीवनं च भवेदिति वनस्य योगक्षेमं वहामहे ॥
अत आशास्महे ।
प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतिमहती महीयताम्
॥
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥ इति
॥
No comments:
Post a Comment