Wednesday, January 25, 2017

वनसंरक्षणम्



            इदं जीवनं सुशोभनं भवेद् ! इति आकांक्षा सदोदेति खलु? तर्हि तज्जीवनं वनं हित्वा कथं सिद्ध्येत । 
            “जीवाम शरदश्शतं” इति मन्यमानैः पूर्वजैः आर्षैः वनसंरक्षणं कृतम् । न यत्नेन किं तु मातृभावेन । वनं अस्माकं जीवनम् । अत एव सा प्रकृतिरिति कथ्यते । प्रकृतिर्न केवलमस्माकमाश्रयभूता किन्तु मातृस्थानीया। सा माता अस्मान् आजीवनं पालयति । अस्माकं सन्ततेरपि रक्षणं तयैव कर्तव्यम् । अतः सा माता अस्माभिः रक्षितव्या भवति । प्रकृतिस्तु स्वस्याः सर्वसम्पदमपि मातृवत् पुत्राणां सुखार्थं विनियुंक्ते । “कुपुत्रो जायेत क्वचिदपि कुमाता न भवति” इति।

            किन्तु तस्या अपि एका सीमा वर्तते । तदतिरिच्य सा यदि यत्किंचिद्ददाति चेदपि तद्विषायत एव! पुत्रा वयं मातुः मातृत्त्वं पालयामः । तथा च चिन्तयाम अस्य पर्यावरणस्य परिरक्षणं कथं कर्तुं शक्यते? इति । एवमेव परिभावयाम समस्तपृथिवी हरिद्रांचितं यथा भवेत् । तदर्थमस्माभिः यत्नेन वनसंरक्षणं, वनसंवर्धनमपि कार्यम् । नो चेदागामि जीवप्रपञ्चे नास्माकं गणना गुणेन गौरवेण वा स्यात्! जीवनं संजीवनं यथा भवेत् । उज्जीवनं च भवेदिति वनस्य योगक्षेमं वहामहे ॥


             अत आशास्महे । 
प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतिमहती महीयताम् ॥
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥ इति ॥

No comments:

Post a Comment