Wednesday, January 25, 2017

वनसंरक्षणम्



            इदं जीवनं सुशोभनं भवेद् ! इति आकांक्षा सदोदेति खलु? तर्हि तज्जीवनं वनं हित्वा कथं सिद्ध्येत  
            जीवाम शरदश्शतंइति मन्यमानैः पूर्वजैः आर्षैः वनसंरक्षणं कृतम् यत्नेन किं तु मातृभावेन वनं अस्माकं जीवनम् अत एव सा प्रकृतिरिति कथ्यते प्रकृतिर्न केवलमस्माकमाश्रयभूता किन्तु मातृस्थानीया। सा माता अस्मान् आजीवनं पालयति अस्माकं सन्ततेरपि रक्षणं तयैव कर्तव्यम् अतः सा माता अस्माभिः रक्षितव्या भवति । प्रकृतिस्तु स्वस्याः सर्वसम्पदमपि मातृवत् पुत्राणां सुखार्थं विनियुंक्ते ।कुपुत्रो जायेत क्वचिदपि कुमाता भवतिइति।

            किन्तु तस्या अपि एका सीमा वर्तते । तदतिरिच्य सा यदि यत्किंचिद्ददाति चेदपि तद्विषायत एव! पुत्रा वयं मातुः मातृत्त्वं पालयामः । तथा च चिन्तयाम अस्य पर्यावरणस्य परिरक्षणं कथं कर्तुं शक्यते? इति । एवमेव परिभावयाम समस्तपृथिवी हरिद्रांचितं यथा भवेत् । तदर्थमस्माभिः यत्नेन वनसंरक्षणं, वनसंवर्धनमपि कार्यम् । नो चेदागामि जीवप्रपञ्चे नास्माकं गणना गुणेन गौरवेण वा स्यात्! जीवनं संजीवनं यथा भवेत् । उज्जीवनं च भवेदिति वनस्य योगक्षेमं वहामहे ॥


             अत आशास्महे । 
प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतिमहती महीयताम् ॥
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥ इति ॥

No comments:

Post a Comment